आबाल्यात्संगिनी शश्वच्छयने भोजने रणे
त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता
काले सिंहः सृगालं च सृगालः सिंहमेव च
महिषं मक्षिका काले गरुडं च तथोरगः
इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति
मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया
महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः
ततः क्षुद्रविराड् जातः सर्वेषां कारणं परम् 3.40.
नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्नतः
तपश्चक्रे ततस्तत्र लक्षवर्षं च वायुभुक्
गोपगोपीपरिवृतं द्विभुजं मुरलीधरम्
दृष्ट्वाऽनुज्ञां गृहीत्वा च प्रणम्य च पुनः पुनः
यः शिवः सृष्टिसंहर्त्ता स च स्रष्टुर्ललाटजः
सृष्टिकारणभूताश्च ब्रह्मविष्णुमहेश्वराः
तेऽपि देवाः प्राकृतिकाः प्राकृतश्च महाविराट्
न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना
सा च कृष्णे तिरोभूय सृष्टिसंहारकारके
कुलालश्च कटं कर्तुं यथाऽशक्तो मृदं विना 3.40.
सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः
ऐश्वर्य्याधिष्ठातृदेवी सर्वमङ्गलकारिणी
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा
बुद्ध्यधिष्ठातृदेवी या सर्वशक्तिस्वरूपिणी
वागधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा
पञ्चधाऽऽदौ स्वयं देवी मूलप्रकृतिरीश्वरी
योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च
सृष्टिश्च प्रतिविश्वेषु ब्रह्मन्ब्रह्मोद्भवा सदा
दत्तदत्तं ज्ञानमिदं राम मह्यं च पुष्करे 3.40.
इत्युक्त्वा कार्त्तवीर्य्यश्च रामं नत्वा च सस्मितः