भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान्
राजा दृष्ट्वा सुरेशांश्च भक्तिनम्रात्मकन्धरः
तत्राजगाम भगवान्दत्तात्रेयो रणस्थलम्
भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः
ददर्श स्तम्भितो रामो राजानं रणमूर्द्धनि
सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा
गोपालशतयुक्तेन गोपवेषविधारिणा
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी
राज्ञोऽस्ति दक्षिणे बाहौ सद्रत्नगुटिकान्वितम्
तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद 3.40.
भिक्षां कृत्वा तु कवचमानीय च नृपस्य च
एतस्मिन्नन्तरे देवा जग्मुः स्वस्थानमुत्तमम्
परशुराम उवाच कालभेदे जयो नृणां कालभेदे पराजयः
अधीतं विधिवद्दत्तं कृत्स्ना पृथ्वी सुशासिता
जिताः सर्वे च राजेन्द्रा लीलया रावणो जितः
रामस्य वचनं श्रुत्वा राजा परमधार्मिकः
राजोवाच गताः कतिविधा भूपा मादृशा धरणीतले
बुद्धिस्तेजो विक्रमश्च विविधा रणमन्त्रणा
आचारो विनयो विद्या प्रतिष्ठा परमं तपः
सा च स्त्री प्राणतुल्या मे साध्वी पद्मांशसम्भवा 3.40.
आबाल्यात्संगिनी शश्वच्छयने भोजने रणे
त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता
काले सिंहः सृगालं च सृगालः सिंहमेव च
महिषं मक्षिका काले गरुडं च तथोरगः
इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति
मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया
महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः
ततः क्षुद्रविराड् जातः सर्वेषां कारणं परम् 3.40.
नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्नतः