इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे दुर्गतिनाशिनीकवचं नामैकोनचत्वारिंशतमोऽध्यायः
नारायण उवाच सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः
कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्नतः पतिते तु सहस्राक्षे कार्तवीर्य्यार्जुनः स्वयम्
सुवर्णरथमारुह्य रत्नसारपरिच्छदम्
समरे तं परशुरामो राजेन्द्रं च ददर्श ह
रत्नातपत्रभूषाढ्यं रत्नालंकारभूषितम्
राजा दृष्ट्वा मुनीन्द्रं तमवरुह्म रथादहो
ददौ शुभाशिषं तस्मै रामश्च समयोचितम्
उभयोः सेनयोर्युद्धमभवत्तत्र नारद क्षतविक्षतसर्वाङ्गाः कार्त्तवीर्य्यप्रपीडिताः
नृपस्य शरजालेन रामः शस्त्रभृतां वरः 3.40.
चिक्षेप रामश्चाग्नेयं बभूवाग्निमयं रणे
चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम्
चिक्षेप रामो नागास्त्रं दुर्निवार्य्यं भयंकरम्
माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः
ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद
दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम्
शूलं ददर्श रामश्च शतसूर्य्यसमप्रभम्
पपात शूलं समरे रामस्योपरि नारद
पतिते तु तदा रामे सर्वे देवा भयाकुलाः
शङ्करश्च महाज्ञानी महाज्ञानेन लीलया 3.40.
भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान्
राजा दृष्ट्वा सुरेशांश्च भक्तिनम्रात्मकन्धरः
तत्राजगाम भगवान्दत्तात्रेयो रणस्थलम्
भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः
ददर्श स्तम्भितो रामो राजानं रणमूर्द्धनि
सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा
गोपालशतयुक्तेन गोपवेषविधारिणा
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी
राज्ञोऽस्ति दक्षिणे बाहौ सद्रत्नगुटिकान्वितम्
तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद 3.40.