ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु
प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका
पश्चिमे पार्वती पातु वाराही वारुणे सदा
ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः 3.39.
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः
कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम्
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे दुर्गतिनाशिनीकवचं नामैकोनचत्वारिंशतमोऽध्यायः
नारायण उवाच सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः
कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्नतः पतिते तु सहस्राक्षे कार्तवीर्य्यार्जुनः स्वयम्
सुवर्णरथमारुह्य रत्नसारपरिच्छदम्
समरे तं परशुरामो राजेन्द्रं च ददर्श ह
रत्नातपत्रभूषाढ्यं रत्नालंकारभूषितम्
राजा दृष्ट्वा मुनीन्द्रं तमवरुह्म रथादहो
ददौ शुभाशिषं तस्मै रामश्च समयोचितम्
उभयोः सेनयोर्युद्धमभवत्तत्र नारद क्षतविक्षतसर्वाङ्गाः कार्त्तवीर्य्यप्रपीडिताः
नृपस्य शरजालेन रामः शस्त्रभृतां वरः 3.40.
चिक्षेप रामश्चाग्नेयं बभूवाग्निमयं रणे
चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम्
चिक्षेप रामो नागास्त्रं दुर्निवार्य्यं भयंकरम्
माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः
ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद
दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम्
शूलं ददर्श रामश्च शतसूर्य्यसमप्रभम्
पपात शूलं समरे रामस्योपरि नारद
पतिते तु तदा रामे सर्वे देवा भयाकुलाः
शङ्करश्च महाज्ञानी महाज्ञानेन लीलया 3.40.