धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्।। श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु 3.38.
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम्
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः 3.38.
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रभुम्
नारद उवाच परं दुर्गतिनाशिन्याः कवचं कथय प्रभो
पद्माक्षप्राणतुल्यं च जीवनं बलकारणम्
नारायण उवाच श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा
ब्रह्मा त्रिपुरसंग्रामे शंकराय ददौ पुरा
हरो ददौ गौतमाय पद्माक्षाय च गौतमः
यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम्
पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा 3.39.
ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम्
स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम्
दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु