दत्तं सनत्कुमाराय प्रियपुत्राय धीमते
यद्धृत्वा पाठनाद् ब्रह्मा सवसिद्धेश्वरो महान्
यद्दत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः 3.38.
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः
राजा मरुत्तो भगवानभवद्धारणाद्यतः
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्।। श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु 3.38.
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम्
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः 3.38.
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रभुम्
नारद उवाच परं दुर्गतिनाशिन्याः कवचं कथय प्रभो
पद्माक्षप्राणतुल्यं च जीवनं बलकारणम्
नारायण उवाच श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा