परशुराम उवाच शीघ्रं च ब्रूहि मां मूढं तदा गच्छ नृपान्तिकम्
जामदग्न्यवचः श्रुत्वा प्रहस्य ब्राह्मणः स्वयम्
गत्वा तयोः सन्निधानं ययाचे कवचे च तौ गृहीत्वा कवचे विष्णुर्वैकुण्ठं निर्जगाम सः
नारद उवाच पुष्कराक्षाय भूपाय श्रोतुं कौतूहलं मम
कवचं चापि दुर्गायाः पुष्कराक्षसुताय च
कवचं चापि किम्भूतं तयोर्वा तस्य किं फलम् ।।। 3.38.
नारायण उवाच महालक्ष्म्याश्च कवचं मन्त्रश्चापि दशाक्षरः
स्तवनं चापि गोप्यं वै प्रोक्तं तच्चरितं च यत्
दुर्गायाश्चापि कवचं दत्तं दुर्वाससा पुरा
पश्चाच्छ्रोष्यसि तत्सर्वं देव्याश्च परमाद्भुतम्
महालक्ष्म्याश्च मन्त्रं च शृणु तं कथयामि ते
ध्यानं च सामवेदोक्तं शृणु पूजाविधिं मुने
सहस्रदलपद्मस्थां पद्मनाभप्रियां सतीम्
पद्मपुष्पप्रियां पद्मपुष्पतल्पाधिशायिनीम्
पद्मभूषणभूषाढ्यां पद्मशोभाविवर्द्धनीम्
चन्दनाष्टदले पद्मे पद्मपुष्पेण पूजयेत् 3.38.
ततः स्तुत्वा च प्रणमेत्साधको भक्तिपूर्वकम्
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम्
सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत्
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते
यद्धृत्वा पाठनाद् ब्रह्मा सवसिद्धेश्वरो महान्
यद्दत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः 3.38.
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः
राजा मरुत्तो भगवानभवद्धारणाद्यतः
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः