बोधयित्वा तान्निवार्य्य जगाम रणमूर्द्धनि
छित्त्वा राज्ञः किरीटं च पर्शुर्भूमौ पपात ह
तदा शङ्करशूलं च चिक्षिपे मन्त्रपूर्वकम्
राजा निहन्तुं तं रामं शरजालं चकार ह
क्रमेण राजा नानास्त्रं चिक्षिपे मन्त्रपूर्वकम्
भृगुश्चिक्षेप नानास्त्रं महासन्धानपूर्वकम् 3.38.
रामश्चिक्षेप सन्धाय ब्रह्मास्त्रं मन्त्रपूर्वकम्
सर्वाण्यस्त्राणि शस्त्राणि रामः पाशुपतं विना
रामः स्तुत्वा शिवं नत्वाऽऽददे पाशुपतं मुने
ब्राह्मण उवाच नरं हन्तुं पाशुपतं कोपात्किं क्षिपसि भ्रमात्
विश्वं पाशुपतेनैव भवेद्भस्म च सत्वरम्
अहो पाशुपतं जेतुं नालमेव सुदर्शनम्
खट्वांगिनः पाशुपातं हरेरेव सुदर्शनम्
त्यज पाशुपतं ब्रह्मन्मदीयं वचनं शृणु
कार्त्तवीर्य्यमजेतारं यथा जेष्यसि साम्प्रतम्
महालक्ष्म्याश्च कवचं त्रिषु लोकेषु दुर्लभम् 3.38.
परं दुर्गतिनाशिन्याः कवचं परमाद्भुतम्
कवचस्य प्रभावेण विश्वं जेतुं क्षमौ च तौ
अहं यास्यामि भिक्षार्थं सन्निधाने तयोर्मुने
ब्राह्मणस्य वचः श्रुत्वा रामः संत्रस्तमानसः
परशुराम उवाच शीघ्रं च ब्रूहि मां मूढं तदा गच्छ नृपान्तिकम्
जामदग्न्यवचः श्रुत्वा प्रहस्य ब्राह्मणः स्वयम्
गत्वा तयोः सन्निधानं ययाचे कवचे च तौ गृहीत्वा कवचे विष्णुर्वैकुण्ठं निर्जगाम सः
नारद उवाच पुष्कराक्षाय भूपाय श्रोतुं कौतूहलं मम
कवचं चापि दुर्गायाः पुष्कराक्षसुताय च
कवचं चापि किम्भूतं तयोर्वा तस्य किं फलम् ।।। 3.38.
नारायण उवाच महालक्ष्म्याश्च कवचं मन्त्रश्चापि दशाक्षरः
स्तवनं चापि गोप्यं वै प्रोक्तं तच्चरितं च यत्
दुर्गायाश्चापि कवचं दत्तं दुर्वाससा पुरा
पश्चाच्छ्रोष्यसि तत्सर्वं देव्याश्च परमाद्भुतम्