राजेन्द्रः शरजालेन च्छेदयामास तांस्तथा
चिच्छिदुः स्यन्दनं राज्ञस्ते वीराः पञ्चबाणतः
तद्धनुः सप्तबाणेन तूर्णं वै पञ्चबाणतः
ते च त्र्यक्षौहिणीं सेनान्निजघ्नुश्चापि लीलया गले बभूव तच्छूलं राज्ञः पुष्करमालिका
शक्तिं च परिघं चैव भुशुण्डीं मुद्गरं तथा
तानि शस्त्राणि चूर्णानि क्ष्माभृतो देहयोगतः 3.38.
रथं धनुश्च शस्त्राणि चास्त्राणि विविधानि च
राजा स्यन्दनमारुह्य पुष्कराक्षो महाबलः
चिच्छिदुः शरजालं ते वीराः शस्त्रास्त्रपाणयः
भ्रातॄंश्च निद्रितान्दृष्ट्वा जामदग्न्यो महाबलः
बोधयित्वा तान्निवार्य्य जगाम रणमूर्द्धनि
छित्त्वा राज्ञः किरीटं च पर्शुर्भूमौ पपात ह
तदा शङ्करशूलं च चिक्षिपे मन्त्रपूर्वकम्
राजा निहन्तुं तं रामं शरजालं चकार ह
क्रमेण राजा नानास्त्रं चिक्षिपे मन्त्रपूर्वकम्
भृगुश्चिक्षेप नानास्त्रं महासन्धानपूर्वकम् 3.38.
रामश्चिक्षेप सन्धाय ब्रह्मास्त्रं मन्त्रपूर्वकम्
सर्वाण्यस्त्राणि शस्त्राणि रामः पाशुपतं विना
रामः स्तुत्वा शिवं नत्वाऽऽददे पाशुपतं मुने
ब्राह्मण उवाच नरं हन्तुं पाशुपतं कोपात्किं क्षिपसि भ्रमात्
विश्वं पाशुपतेनैव भवेद्भस्म च सत्वरम्
अहो पाशुपतं जेतुं नालमेव सुदर्शनम्
खट्वांगिनः पाशुपातं हरेरेव सुदर्शनम्
त्यज पाशुपतं ब्रह्मन्मदीयं वचनं शृणु
कार्त्तवीर्य्यमजेतारं यथा जेष्यसि साम्प्रतम्
महालक्ष्म्याश्च कवचं त्रिषु लोकेषु दुर्लभम् 3.38.
परं दुर्गतिनाशिन्याः कवचं परमाद्भुतम्
कवचस्य प्रभावेण विश्वं जेतुं क्षमौ च तौ
अहं यास्यामि भिक्षार्थं सन्निधाने तयोर्मुने
ब्राह्मणस्य वचः श्रुत्वा रामः संत्रस्तमानसः