एवंरूपं परं बिभ्रद्भगवानेक एव सः
सौतिरुवाच निर्जन्तु निर्जलं घोरं निर्वातं तमसा वृतम्
वृक्षशैलसमुद्रादिविहीनं विकृताकृतम्
आलोच्य मनसा सर्वमेक एवासहायवान्
आविर्बभूवुः सर्गादौ पुंसो दक्षिणपार्श्वतः
ततो महानहङ्कारः पञ्चतन्मात्र एव च
आविर्बभूव पश्चात्स्वयं नारायणः प्रभुः
शंखचक्रगदापद्मधरः स्मेरमुखाम्बुजः
श्रीवत्सवक्षाः श्रीवासः श्रीविधिः श्रीविभावनः
कामदेवप्रभामृष्टरूपलावण्यसुन्दरः
नारायण उवाच कारणं कारणानां च कर्म तत्कर्मकारणम् ।। 1.3.
तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम्
निष्कामं कामरूपं च कामघ्नं कामकारणम्
वेदरूपं वेदभवं वेदोक्तफलदं फलम्
इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया
नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः
पुत्रार्थी लभते पुत्रं भार्य्यार्थी लभते प्रियाम्
कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते
सौतिरुवाच शुद्धस्फटिकसङ्काशः पञ्चवक्त्रो दिगम्बरः
तप्तकाञ्चनवर्णाभ जटाभारधरो वरः
त्रिशूलपट्टिशधरो जपमालाकरः परः 1.3.
मृत्योर्मृत्युरीश्वरश्च मृत्युर्मृत्युञ्जयः शिवः
पूर्णचन्द्रप्रभामृष्टमुखदृश्यो मनोहरः
श्रीकृष्पुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः
महादेव उवाच प्रवरं जयदानां च वन्दे तमपराजितम्
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम्
विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम्
तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् नारायणं च संभाष्य स उवास तदाज्ञया
इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत्
सन्ततं वर्द्धते मित्रं धनमैश्वर्य्यमेव च