राजा ददौ च तन्मन्त्रं कवचं परमादरात्
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम्
नारायण उवाच गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम्
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम्
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः
नारद उवाच अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो
नारायण उवाच नारायणेन यद्दत्तं कृपया शूलिने पुरा
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् 3.37.
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम्
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु
प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका
पातूर्ध्वं लोलजिह्वा सा मायाऽऽद्या पात्वधः सदा
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् 3.37.
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रभावतः
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह
यदि स्यात्सिद्धकवचः सर्वसिद्धीश्वरो भवेत् निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम्
इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम्
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः
नारायण उवाच अगमत्पुष्कराक्षस्तु सेनात्र्यक्षौहिणीयुतः
सूर्य्यवंशोद्भवो राजा सुचन्द्रतनयो महान्
महालक्ष्म्याश्च कवचं गले यस्य मनोहरम्
तं दृष्ट्वा भ्रातरः सर्वे रैणुकेयस्य धीमतः