त्रिरात्रं युयुधे रामस्तैः सार्द्धं समराजिरे
रम्भास्तम्भसमूह च यथा खड्गेन लीलया
सर्वांस्तान्निहतान्दृष्ट्वा सूर्य्यवंशसमुद्भवः
द्वादशाक्षौहिणीभिश्च सेनाभिः सह संयुगे
भृगुः शङ्करशूलेन नृपलक्षं निहत्य च
निहत्य सर्वाः सेनाश्च सुचन्द्रं युयुधे बली 3.36.
नागपाशं च चिच्छेद गारुडेन नृपेश्वरः
भृगुर्नारायणास्त्रं च चिक्षेप रणमूर्धनि
दृष्ट्वाऽस्त्रं नृपशार्दूलश्चावरुह्य रथात्क्षणात्
तमेव प्रणतं त्यक्त्वा ययौ नारायणान्तिकम्
भृगुः शक्तिं च मुसलं तोमरं पट्टिशं तथा
जग्राह काली तान्सर्वान्सुचन्द्रस्यन्दनस्थिता
ददर्श पुरतो रामो भद्रकालीं जगत्प्रसूम्
विहाय शस्त्रमस्त्रं च पिनाकं च भृगुस्तदा
परशुराम उवाच नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः
नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमोनमः 3.36.
प्रसीद जगतां मातः सृष्टिसंहारकारिणि
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः
युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा
रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका
एतद्भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्
स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत्
एतस्मिन्नन्तरे ब्रह्मा भृगुं धर्मभृतां वरम्
ब्रह्मोवाच सुचन्द्रजयहेतुं च प्रतिज्ञाफलमेव च
दशाक्षरी महाविद्या दत्ता दुर्वाससा पुरा
कवचं भद्रकाल्याश्च देवानां च सुदुर्लभम् 3.36.
अतीव पूज्यं शस्तं च त्रैलोक्यजयकारणम्
भृगो गच्छतु भिक्षार्थं करोतु प्रार्थनां नृपम्
प्राणांश्च कवचं मन्त्रं सर्वं दास्यति निश्चितम्
भृगुः संन्यासिवेषेण गत्वा राजान्तिकं मुने