ते वीराः शरजालेन दिव्यास्त्रेण प्रयत्नतः
आययौ समरे शीघ्रं दृष्ट्वा तांश्च पराजितान्
चिक्षेप नागपाशं च जामदग्न्यो महाबलः
भृगुः शङ्करशूलेन सोमदत्तं जघान ह
मैथिलं मुद्गरेणैव शक्त्या वै नैषधं तथा
निहत्य निखिलान्भूपान्संहाराग्निसमो रणे 3.36.
दृष्ट्वा तं योद्धुमायान्तं राजानश्च महारथाः
कान्यकुब्जाश्च शतशः सौराष्ट्राः शतशस्तथा
सौम्या वाङ्गाश्च शतशो महाराष्ट्रास्तथा दश
कृत्वा तु शरजालं च भृगुश्चिच्छेद तत्क्षणम्
त्रिरात्रं युयुधे रामस्तैः सार्द्धं समराजिरे
रम्भास्तम्भसमूह च यथा खड्गेन लीलया
सर्वांस्तान्निहतान्दृष्ट्वा सूर्य्यवंशसमुद्भवः
द्वादशाक्षौहिणीभिश्च सेनाभिः सह संयुगे
भृगुः शङ्करशूलेन नृपलक्षं निहत्य च
निहत्य सर्वाः सेनाश्च सुचन्द्रं युयुधे बली 3.36.
नागपाशं च चिच्छेद गारुडेन नृपेश्वरः
भृगुर्नारायणास्त्रं च चिक्षेप रणमूर्धनि
दृष्ट्वाऽस्त्रं नृपशार्दूलश्चावरुह्य रथात्क्षणात्
तमेव प्रणतं त्यक्त्वा ययौ नारायणान्तिकम्
भृगुः शक्तिं च मुसलं तोमरं पट्टिशं तथा
जग्राह काली तान्सर्वान्सुचन्द्रस्यन्दनस्थिता
ददर्श पुरतो रामो भद्रकालीं जगत्प्रसूम्
विहाय शस्त्रमस्त्रं च पिनाकं च भृगुस्तदा
परशुराम उवाच नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः
नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमोनमः 3.36.
प्रसीद जगतां मातः सृष्टिसंहारकारिणि
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः
युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा
रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका