नारायण उवाच ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम्
पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम्
यद्धृत्वा पठनाद्बाणः शिवत्वं प्राप लीलया
वीरश्रेष्ठो वीरभद्रः साम्बोऽभूद्धारणाद्यतः
हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः
जैगीषव्यो महायोगी पठनाद्धारणाद्यतः अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ।। 3.35.
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु
ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु
ॐ ह्रीं श्रीं क्लीं मैं रुद्राय स्वाहा नाभिं सदाऽवतु
ॐ ह्रीं क्लीं मृत्युञ्जयाय स्वाहा भ्रुवौ बाहू सदाऽवतु
ॐ ह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा
ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु 3.35.
प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शङ्करः
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः
ऊर्ध्वे मृडः सदा पातु चाधो मृत्युञ्जयः स्वयम्
पिनाकी पातु मां प्रीत्या भक्तं सवै भक्तवत्सलः
दशलक्षजपेनैव सिद्धिर्भवति निश्चितम्
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित्
अश्वमेधसहस्राणि राजसूयशतानि च
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः
इदं कवचमज्ञात्वा भजेद्यः शङ्करं प्रभुम्
नारायण उवाच राजेन्द्रान्प्रेषयामास युद्धे शस्त्रविशारदान्
बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम्
आययुः समरे योद्धुं जामदग्न्यं महारथाः
रामस्य भ्रातरः सर्वे वीरास्तीक्ष्णास्त्रपाणयः