बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् 1.13.
एवम्भूतां च तां दृष्ट्वा देवास्ते विस्मयं ययुः
सौतिरुवाच ययुर्मालावतीमूलं परं मङ्गलदायकाः
मालावती सुरान्दृष्ट्वा प्रणनाम प्रतिव्रता
एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम्
चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा
तत्रोवास सभामध्ये तारामध्ये यथा शशी
ब्राह्मण उवाच स्वयं विधाता जगतां स्रष्टा वै केन कर्मणा
सर्वब्रह्माण्डसंहर्त्ता शम्भुरत्र स्वयं विभुः
कथं रविः कथं चन्द्रः कथमत्र हुताशनः
हे मालावति ते क्रोडे कोऽतिशुष्कश्शवोऽनघे 1.14.
इत्युक्त्वा तांश्च तां विप्रो विरराम सभातले
मालावत्युवाच तुष्टा देवा हरिस्तुष्टो यस्य पुष्पजलेन च
अवधानं कुरु विभो शोकार्ताया निवेदने
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च
दिव्यं लक्षयुगं रम्ये स्थाने स्थाने मनोहरे
प्रिये स्नेहो हि साध्वीनां यावान्विप्रेन्द्र योषिताम्
अकस्माद्ब्रह्मणः शापात्प्राणांस्तत्याज मत्पतिः
स्वकार्य्यसाधने सर्वे व्यग्राश्च जगतीतले
सुखं दुःखं भयं शोकं सन्तापः कर्मणां नृणाम्
देवाश्च सर्वज नका दातारः कर्मणां फलम् 1.14.
न हि देवात्परो बन्धुर्न हि देवात्परो बली
सर्वान्देवानहं याचे पतिदानं ममेप्सितम्
यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम्
शपिष्यामि च सर्वांश्च दारुणं दुर्निवारकम्
इत्युक्त्वा मालती साध्वी शोकार्ता सुरसंसदि
ब्राह्मण उवाच न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम्
गृही च कृषकद्वारा क्षत्रे धान्यं वपेत्सति
काले सुपक्वं भवति काले प्राप्नोति तद्गृही