शरजालेन राजेन्द्रो वारयामास तानपि
राजा चिक्षेप दिव्यास्त्रं शतसूर्य्यप्रभं मुने
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः १०५ न्यस्तशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः
शूलनिक्षेपसमये वाग्बभूवाशरीरिणी
शिवस्य कवचं दिव्यं दत्तं दुर्वाससा पुरा
प्राणानां च प्रदातारं कवचं याचतं नृपम्
तच्छूलं तं नृपं प्राप्य शतखण्डं गतं मुने 3.35.
ययाचे कवचं भूपं जमदग्निसुतो महान्
गृहीत्वा कवचं तच्च शूलेनैव जघान ह महाबलिष्ठो गुणवांश्चन्द्रवंशसमुद्भवः
नारद उवाच नारायण महाभाग श्रोतुं कौतूहलं मम
नारायण उवाच ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम्
पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम्
यद्धृत्वा पठनाद्बाणः शिवत्वं प्राप लीलया
वीरश्रेष्ठो वीरभद्रः साम्बोऽभूद्धारणाद्यतः
हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः
जैगीषव्यो महायोगी पठनाद्धारणाद्यतः अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ।। 3.35.
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु
ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु
ॐ ह्रीं श्रीं क्लीं मैं रुद्राय स्वाहा नाभिं सदाऽवतु
ॐ ह्रीं क्लीं मृत्युञ्जयाय स्वाहा भ्रुवौ बाहू सदाऽवतु
ॐ ह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा
ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु 3.35.
प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शङ्करः
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः
ऊर्ध्वे मृडः सदा पातु चाधो मृत्युञ्जयः स्वयम्