स्वर्णे लोष्टे गृहेऽरण्ये पंके सुस्निग्धचन्दने
सर्वजीवेषु यो विष्णुं भावयेत्समता धिया
तपोधनं ब्राह्मणानां तपः कल्पतरुर्यथा
ऐश्वर्य्ये क्षत्रियाणां च वाणिज्ये च तथा विशाम्
ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता
रागी राजसिकं कार्य्यं कुरुते कर्म्म रागतः
रागतः कामधेनुश्च मया वै याचिता मुने
कुतः कस्य मुनेरस्ति कामधेनुस्त्वया विना
त्रिंशदक्षौहिणीं सेनां राजेन्द्राणां त्रिकोटिकाम् 3.35.
आत्मानं हन्तुमायान्तमपि वेदांगपारगम्
प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम्
पित्रा ते निहता भूपा महाबलपराक्रमाः
त्रिःसप्तकृत्वो निर्भूपां कृत्स्नां कर्तुं महीमिति
क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः
तपोधनानां विप्राणां वाग्बलानां युगे युगे
क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम्
हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः
बलं वेषश्च वेश्यानां योषितां यौवनं बलम्
सतां सत्यं बलं मिथ्या बलमेवासतां सदा 3.35.
विद्या बलं पण्डितानां धैर्य्यं साहसिनां बलम्
धनं बलं च धनिनां शुचीनां च विशेषतः
हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम्
बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम्
यतीनां च सदाचारो न्यासः संन्यासिनां बलम्
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम्
जलं बलं च सस्यानां मत्स्यानां च जलं बलम्
विप्रः शान्तो रणोद्योगी नैव दृष्टो न च श्रुतः
इत्येवमुक्त्वा राजेन्द्रो विरराम रणाजिरे 3.35.
रामस्य भ्रातरः सर्वे तीक्ष्णशस्त्रासिपाणयः
रणोन्मुखांश्च तान्दृष्ट्वा मत्स्यराजो महाबलः