क्षिप्तं वमन्तं रुधिरं महिषं गर्दभं तथा
चण्डवातं रक्तवृष्टिं वाद्यं वै वृक्षपातनम्
पाशं च शुष्ककाष्ठं च वायसं गन्धकं तथा
प्रतिग्राहिब्राह्मणं च तन्त्रमन्त्रोपजीविनम्
कुवार्त्तां मृतवार्तां च विप्रशापं च दारुणम्
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम्
तथाऽपि राजा निश्शङ्को ददर्श समराङ्गणम्
अवरुह्य रथात्तूर्णं दृष्ट्वा च पुरतो भृगुम्
आशिषं युयुजे रामः स्वर्गं याहीति वाञ्छितम् 3.35.
भृगुं प्रणम्य राजेन्द्रो राजेन्द्रैः सह तत्क्षणात्
नानाप्रकारवाद्यं च दुन्दुभिं मुरजादिकम्
उवाच रामो राजेन्द्रं राजेन्द्राणां च संसदि
परशुराम उवाच विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः
स्वयं विद्वांश्च वेदांश्च श्रुत्वा वेदविदो मुखात्
त्वं पूर्वमहनो लोभान्निरीहं ब्राह्मणं कथम्
किं भविष्यति ते भूप परत्रैवानयोर्वधात्
सत्कीर्त्तिश्चाथ दुष्कीर्तिः कथामात्रावशेषिता
क्व गता कपिला त्वं क्व क्व विवादो मुनिः कुतः
त्वामुपोषितमीशं हि दृष्ट्वा तातो हि धार्मिकः 3.35.
अधीतं विधिवद्दत्तं ब्राह्मणेभ्यो दिने दिने
दाता वरिष्ठो धर्म्मिष्ठो यशस्वी पुण्यवान्सुधीः
पुरातना वदन्तीति बन्दिनो धरणीतले
दुर्वाक्यं दुःसहं राजंस्तीक्ष्णास्त्रादपि जीविनाम्
न ददामि द्विरुक्तिं ते प्रकृतं कथयाम्यहम्
सूर्य्यचन्द्रमनूनां च वंशजाः सन्ति संसदि
शृण्वन्तु सर्वे राजेन्द्राः सदसद्वक्तुमीश्वराः
इत्युक्त्वा रैणुकेयश्च विरराम रणस्थले
कार्त्तवीर्य्यार्जुन उवाच श्रुतो धर्मो मुखाद्येषां त्वं च तेषां गुरोर्गुरुः
कर्म्मणा वाऽप्यसद्बुध्या करोति ब्रह्मभावनाम् 3.35.
अन्तर्बहिश्च मननात्कुरुत कर्म्म नित्यशः