मनोरमे समुत्तिष्ठ मलयं व्रज सुन्दरि
शीतेन गन्धयुक्तेन वायुना सुरभीकृते
चन्दनागुरुकस्तूरीकुंकुमालेपनं कुरु
सुधातुल्यं सुमधुरं वचनं रचय प्रिये
नृपस्य रोदनं श्रुत्वा वाग्बभूवाशरीरिणी
त्वं महाज्ञानिनां श्रेष्ठो दत्तात्रेयप्रसादतः
कमलांशा च सा साध्वी जगाम कमलालयम्
इत्येव वचनं श्रुत्वा जहौ शोकं नराधिपः
संस्काराग्निं कारयित्वा पुत्रद्वारा ददाह ताम् 3.35.
नानाविधानि दानानि वस्त्राणि विविधानि च
भुज्यतां भुज्यतां शश्वद्दीयतां दीयतामिति
कोषेषु स्वाधिकारेषु स्थितं यद्यद्धनं तदा
राजा जगाम समरं हृदयेन विदूयता
ददर्श मङ्गलं राजा पुरो वर्त्मनि वर्त्मनि
मुक्तकेशीं छिन्ननासां रुदतीं च दिगम्बराम्
मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम्
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम्
वसाविक्रयिणं चैव कन्याविक्रयिणं तथा
सर्पक्षतं नरं सर्पं गोधां च शशकं विषम् 3.35.
देवलं वृषवाहं च शूद्रश्राद्धान्नभोजिनम् ।। शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्ा
कुशपुत्तलिकां चैव शवदाहनकारिणम्
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम्
कपर्दकं च क्षौरं च च्छिन्नकेशं नखं मलम्
अमङ्गलं रुदन्तं च रुदन्तं शोककारिणम्
मिथ्यासाक्ष्य प्रदातारं चौरं च नरघातिनम्
देवतागुरुविप्राणां वस्तुवित्तापहारिणम्
पितृमातृविरक्तं च द्विजाश्वत्थविघातिनम्
विप्रमित्रद्रोहमेवं क्षतं विश्वासघातकम्
जीवानां घातकं चैव स्वांगहीनं च निर्दयम् 3.35.
गलितव्याधिगात्रं च काणं बधिरमेव च