मनोरस्तवचः श्रुत्वा राजा परमपण्डितः
कार्त्तवीर्य्यार्जुन उवाच शोकार्तानां च वचनं न प्रशंस्यं सभासु च
सुखं दुःखं भयं शोकः कलहः प्रीतिरेव च
कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम्
करोति पालनं कालः कालरूपी जनार्दनः
संहर्त्तुर्वाऽपि संहर्त्ता पातुः पाता च कर्मकृत् कः केन हन्यते जन्तुः कर्मणा वै विना सति
स्रष्टा सृजति सृष्टिं च संहर्त्ता संहरेत्पुनः
यस्याज्ञया वाति वातः सन्ततं भयविह्वलः 3.34.
वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत्
वृक्षाश्च पुष्पिताः काले फलितः पल्लवान्विताः
आविर्भूता तिरोभूता सृष्टिरेव तदाज्ञया
नारायणांशो भगवाञ्जामदग्न्यो महाबलः
प्रतिज्ञा विफला तस्य न भवेत्तु कदाचन
ज्ञात्वा सर्वं भविष्यं च शरणं यामि तत्कथम्
इत्येवमुक्त्वा राजेन्द्रः समरं गन्तुमुद्यतः
शतकोटिर्नृपाणां च गजेन्द्राणां त्रिलक्षकम्
अश्वानां च गजानां च पदातीनां तथैव च
बभूव स्तिमिता साध्वी दृष्ट्वा तं गमनोन्मुखम् । धृतवन्तं च सन्नाहमक्षयं सशरं धनुः ।। 3.34.
क्रीडागारे क्षणं तस्थौ कृत्वा कान्तं स्ववक्षसि
नारायण उवाच भविष्यं मनसा चक्रे यद्यत्स्वामिमुखाच्छुतम्
पुत्रांश्च पुरतः हृत्वा बान्धवांश्च स्वकिंकरान्
योगेन भित्त्वा षट्चक्रं वायुं संस्थाप्य मूर्द्धनि
स्वान्तमाकृष्य विषयाज्जलबुद्बुदसन्निभात्
द्विविधं कर्म संन्यस्य निर्मूलमपुनर्भवम्
स राजा तां मृतां दृष्ट्वा विललाप रुरोद च
राजोवाच सचेतना मां पश्येति विलपन्तं मुहुमुर्हुः
मनोरमे समुत्तिष्ठ मया सार्द्धं गृहं व्रज
मनोरमे समुत्तिष्ठ श्रीशैलं व्रज सुन्दरि
मनोरमे समुत्तिष्ठ व्रज गोदावरीं प्रिये 3.35.
मनोरमे समुत्तिष्ठ नन्दनं व्रज सुन्दरि