मनोरमोवाच प्राणातिरेक प्राणेश शृणु वाक्यं शुभावहम्
नारायणांशो भगवाञ्जामदग्न्यो महाबली
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति
पापिनं रावणं जित्वा शूरं त्वमपि मन्यसे
यो न रक्षति धर्म्मं च तस्य को रक्षिता भुवि
शुभाशुभस्य सततं साक्षी धर्म्मस्य कर्मणः
पुत्रदारादिकं यद्यत्सर्वैश्वर्य्यं सुधर्मिणाम्
संसारं स्वप्नसदृशं मत्वा सन्तोऽत्र भारते
दत्तेन दत्तं यज्ज्ञानं तत्सर्वं विस्मृतं त्वया 3.34.
सुखार्थे मृगयां गत्वा तत्रोपोष्य द्विजाश्रमे
गुरु विप्रसुराणां च यः करोति पराभवम्
स्मरणं कुरु राजेन्द्र दत्तात्रेयपदाम्बुजम्
गुरुदेवं समभ्यर्च्य तं भृगुं शरणं व्रज
विप्रस्य किंकरो भूपो वैश्यो भूपस्य भूमिप
अयशः शरणं शश्वत्क्षत्रियस्य च क्षत्रिये
ब्राह्मणं भज राजेन्द्र गरीयांसं सुरादपि
इत्येवमुक्त्वा राजेन्द्रं क्रोडे कृत्वा महासती
चन्दनागुरुकस्तूरीकर्पूरैः कुंकुमैर्युतम् 3.34.
क्षणं सिंहासने तिष्ठ क्षणं वक्षसि मे प्रभो
शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्नृप
मनोरस्तवचः श्रुत्वा राजा परमपण्डितः
कार्त्तवीर्य्यार्जुन उवाच शोकार्तानां च वचनं न प्रशंस्यं सभासु च
सुखं दुःखं भयं शोकः कलहः प्रीतिरेव च
कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम्
करोति पालनं कालः कालरूपी जनार्दनः
संहर्त्तुर्वाऽपि संहर्त्ता पातुः पाता च कर्मकृत् कः केन हन्यते जन्तुः कर्मणा वै विना सति
स्रष्टा सृजति सृष्टिं च संहर्त्ता संहरेत्पुनः
यस्याज्ञया वाति वातः सन्ततं भयविह्वलः 3.34.
वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत्
वृक्षाश्च पुष्पिताः काले फलितः पल्लवान्विताः