तैलाभ्यङ्गितमात्मानमपश्यं गर्दभोपरि
रक्तवस्त्रपरीधानं लोहालङ्कारभूषितम्
भस्माच्छन्नां च पृथिवीं जपापुष्पान्वितां सति
मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम्
सशरामग्निरहितां चितां भस्मसमन्विताम्
पक्व तालफलाकीर्णां पृथिवीमस्थिसंयुताम्
पर्वतं लवणानां च राशीभूतं कपर्दकम्
अदृशं पुष्पितं वृक्षमशोककरवीरयोः
अपश्यमम्बरात्सूर्य्यमण्डलं समम्पतद्भुवि 3.34.
विकृताकारपुरुषं विकटास्यं दिगम्बरम्
बाला द्वादशावर्षीया वस्त्रभूषणभूषिता
आज्ञां त्वं देहि राजेन्द्र त्वद्गेहाद्यामि काननम्
रुष्टो विप्रो मां शपते संन्यासी च तथा गुरुः
चञ्चलानां च गृध्राणां काकानां निकरैः सदा
पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा
नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे
रमणं कुर्वतो लोकान्केशाकेशि च कुर्वतः
मोटकानि च पिण्डानि श्मशानं शवसंयुतम्
कृष्णाम्बरा कृष्णवर्णा नग्ना वै मुक्तकेशिनी ।। 3.34.
नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च मे प्रिये
पादुका चर्मरज्जूनामपश्यं राशिमुल्बणम्
वात्यया घूर्णमानं च शुष्कवृक्षं तमुत्थितम्
ग्रथितां मुण्डमालां च चूर्णमानां च वात्यया
भूतप्रेता मुक्तकेशा वमन्तश्व हुताशनम्
दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम्
गेहपर्वतवृक्षाणां सहसा पतनं परम्
कुक्कुराणां शृगालानां रोदनं च मुहुर्मुहुः
अधश्शिरस्तूर्द्ध्वपादं मुक्तकेशं दिगम्बरम्
विकृताकारशब्दं च ग्रामादौ देव रोदनम् 3.34.
नृपतेर्वचनं श्रुत्वा हृदयेन विदूयता