स्मरन्ति साधवः सन्तो जपन्ति मुनयो मुदा 1.13.
शरणागतदीनार्त्तपरित्राणपरायण
पूजा मे पुत्रशापेन विहता साम्प्रतं प्रभो
सर्वाधिकारो ब्रह्माण्डे त्वया दत्तः पुरा प्रभो
महादेव उवाच शतमन्वन्तरतपःफलेन पुष्करे पुरा
ऐश्वर्यं वा धनं वाऽपि विद्या वा विक्रमोऽथवा
सर्वाज्ञातं सर्वगुप्तमत्यन्तं दुर्लभं परम्
अहो पतिव्रतातेजः सर्वेषां तेजसां परम्
धर्म उवाच यास्यत्येवंविधो धर्मस्त्वया दत्तः पुरा प्रभो
सप्तमन्वन्तरतपःफलेन परमेश्वर
देवा ऊचुः योषिच्छापेन तत्सर्वमधुना याति माधव ।। 1.13.
इत्युक्त्वा संयताः सर्वे तस्थुस्तत्र भयार्दिताः
यूयं गच्छत तन्मूलं विप्ररूपी जनार्दनः
श्रुत्वा तद्वचनं देवाः प्रहृष्टमनसोन्मुखाः
तामेव ददृशुर्देवा देवीं मालावतीं सतीम्
वह्निशुद्धांशुकाधानां सिन्दूरबिन्दुभूषिताम्
पतिसेवामहाधर्मचिरसञ्चिततेजसा
योगासनं कुर्वती च शववक्षःस्थलस्थिताम्
तर्जन्यङ्गुष्ठकोटिभ्यां शुद्धस्फटिकमालिकाम्
चारुचम्पकवर्णाभां बिम्बोष्ठीं रत्नमालिनीम्
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् 1.13.
एवम्भूतां च तां दृष्ट्वा देवास्ते विस्मयं ययुः
सौतिरुवाच ययुर्मालावतीमूलं परं मङ्गलदायकाः
मालावती सुरान्दृष्ट्वा प्रणनाम प्रतिव्रता
एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम्
चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा
तत्रोवास सभामध्ये तारामध्ये यथा शशी
ब्राह्मण उवाच स्वयं विधाता जगतां स्रष्टा वै केन कर्मणा
सर्वब्रह्माण्डसंहर्त्ता शम्भुरत्र स्वयं विभुः