सुवेषया कन्यका स स्मितेन द्विजेन च
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम्
पीतवस्त्रपरीधानां रत्नालङ्कारभूषिताम्
शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम्
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम्
रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम्
पद्मश्रेणीं पूर्णकुम्भं दधि लाजान्घृतं मधु
बकपंक्तिं हंसपंक्तिं कन्यापंक्तिं व्रतान्विताम् 3.33.
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम्
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं च शाश्वतीम्
सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम्
पारावतं शुकं चाषं शंखं चिल्लं च चातकम्
गोरोचनां हरिद्रां च शुक्लधान्याचलं वरम्
देवालयसमूहं च शिवलिंगं च पूजितम्
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च
दिव्यवस्त्रपरीधाना रत्नभूषणभूषिताः
ददर्श नर्त्तकीं वेश्यां रुधिरं च सुरां पपौ
पक्षिणां पीतवर्णानां मानुषाणां च नारद 3.33.
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः
अतीव हृष्टः स्वप्नेन प्रातःकृत्यं चकार सः
नारायण उवाच दूतं प्रस्थापयामास कार्त्तवीर्य्याश्रमं भृगुः
स दूतःशीघ्रमागत्य वसन्तं राजसंसदि
रामदूत उवाच स भृगुर्भ्रातृभिः सार्द्धं तत्र त्वं गन्तुमर्हसि
युद्धं कुरु महाराज जातिभिर्ज्ञातिभिः सह
इत्युक्त्वा रामदूतश्चाप्यगच्छद्रामसन्निधिम्
गच्छन्तं समरं दृष्ट्वा प्राणेशं सा मनोरमा
राजा मनोरमां दृष्ट्वा प्रसन्नवदनेक्षणः
कार्त्तवीर्य्यार्जुन उवाच स तिष्ठन्नर्म्मदातीरे रणाय भ्रातृभिः सह
सम्प्राप्य शङ्कराच्छस्त्रं मन्त्रं च कवचं हरेः ।' त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छति मेदिनीम्
आन्दोलयन्ति मे प्राणा मनः संक्षुभितं मुहुः 3.34.