सुष्वाप पुष्पशय्यायां किङ्करैः परिसेवितः
निशातीते च स भृगुश्चारु स्वप्नं ददर्श ह
गजाश्वशैलप्रासादगोवृक्षफलितेषु च
आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम्
विण्मूत्रोक्षितसर्वांगं वसापूयसमन्वितम्
विस्तीर्णपद्मपत्त्रैश्च स्वं ददर्श सरित्तटे
भुक्तवन्तं च ताम्बूलं लभन्तं ब्राह्मणाशिषम्
परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् 3.33.
जलौकसा वृश्चिकेन मीनेन भुजगेन च
ततो ददर्श चात्मानं मण्डलं चन्द्रसूर्य्ययोः
सुवेषया कन्यका स स्मितेन द्विजेन च
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम्
पीतवस्त्रपरीधानां रत्नालङ्कारभूषिताम्
शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम्
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम्
रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम्
पद्मश्रेणीं पूर्णकुम्भं दधि लाजान्घृतं मधु
बकपंक्तिं हंसपंक्तिं कन्यापंक्तिं व्रतान्विताम् 3.33.
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम्
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं च शाश्वतीम्
सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम्
पारावतं शुकं चाषं शंखं चिल्लं च चातकम्
गोरोचनां हरिद्रां च शुक्लधान्याचलं वरम्
देवालयसमूहं च शिवलिंगं च पूजितम्
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च
दिव्यवस्त्रपरीधाना रत्नभूषणभूषिताः
ददर्श नर्त्तकीं वेश्यां रुधिरं च सुरां पपौ
पक्षिणां पीतवर्णानां मानुषाणां च नारद 3.33.
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः
अतीव हृष्टः स्वप्नेन प्रातःकृत्यं चकार सः