स बभूव निराहारो मासं भक्तिसमन्वितः
ददर्श चक्षुरुन्मील्य गगनं तेजसा वृतम्
तेजोमण्डलमध्यस्थं रत्नयानं ददर्श ह
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारकम्
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति
दास्यं सुदुर्ल्लभं शश्ववत्पादाब्जे च देहि मे
भृगुः प्रणम्य भवनं तज्जगाम परात्परम्
वाञ्छा प्रतीतिजननं सुस्वप्नं च ददर्श ह भाष्य स्वजनं सर्वं गृहे तस्थौ मुदाऽन्वितः
स्वशिष्यान्पितृशिष्यांश्च भ्रातृवर्गांश्च बान्धवान् 3.33.
पौर्वापर्य्यं स्ववृत्तान्तं तानेवोक्त्वा शुभक्षणे
ददर्श मङ्गलं रामः शुश्राव जयसूचकम्
यात्राकाले च पुरतः शुश्राव सहसा मुनिः
आकाशवाणीसंगीतं जयस्ते भवितेति च
चकार यात्रां भगवाञ्छ्रुत्वैवं विविधं शुभम्
ज्वलत्प्रदीपं दधतीं पतिपुत्रवतीं सतीम्
शिवं शिवां पूर्णकुम्भं चाषं च नकुलं तथा
कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम्
मयूरं खञ्जनं चैव शंखचिल्लं चकोरकम्
सौदामनीं शक्रचापं सूर्य्यं सूर्याप्रभां शुभाम् 3.33.
माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम्
पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम्
दुग्धमाज्यं तथा पूगममृतं पायसं तथा
मार्ज्जारं च वृषेन्द्रं च मेषं पर्वतमूषिकम्
कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम्
मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम्
गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं शुभाम्
ताम्रं च स्फटिकं वन्द्यं सिन्दूरं माल्यचन्दनम्
सुगन्धिवायोराघ्राणं प्राप विप्राशिषं शुभाम्
इत्येवं मङ्गलं ज्ञात्वा प्रययौ स मुदाऽन्वितः 3.33.
पौलस्त्यतपसः स्थानं सुगन्धिमरुदन्वितम्