वेदसंघश्च शास्त्राणां पण्डितानां सरस्वती
मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम्
बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् 3.32.
ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम्
शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम्
प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च
धर्म्मः कल्याणबीजानां वेदानां सामवेदकः
जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु
क्रतूनां राजसूयो यो गायत्री छन्दसां च यः
क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः
तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम्
तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान्
सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् 3.32.
वेदानिर्वचनीयं यन्न स्तोतुं पण्डितः क्षमः
वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती
शुद्धतेजस्स्वरूपं च भक्तानुग्रहविग्रहम्
द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा
राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम्
रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः
वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम्
शतशृङ्गे महाशैले गोलोके रत्नपर्वते
परिपूर्णतमं शान्तं राधाकान्तं मनोहरम्
श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः 3.32.
हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः
सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम्
जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः
षडभिज्ञो दशबलो मनोयायी भवेद्ध्रुवम् कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः
इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम्
त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम्
नारायण उवाच गत्वा पुष्करतीर्थ च मन्त्रसिद्धिं चकार ह