महादेव उवाच निर्लिप्तं परमात्मानं नमाम्यखिलकारणम्
स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम्
साकारं च निराकारं सगुणं निर्गुणं प्रभुम्
अतीव कमनीयं च रूपं निरुपमं विभुम् 3.32.
कर्म्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः
स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः
स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान्
स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया
तारकं सर्वदुःखानां सर्वकारणकारणम्
तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः
रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः
प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम्
देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् नारीणां शतरूपा च बहुरूपं नमाम्यहम्
ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः 3.32.
सागरः सरितां यश्च पर्वतानां हिमालयः
पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम्
पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च
ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम्
तैजसानां सुवर्णं च धान्यानां यव एव च
यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः
वेदसंघश्च शास्त्राणां पण्डितानां सरस्वती
मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम्
बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् 3.32.
ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम्
शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम्
प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च
धर्म्मः कल्याणबीजानां वेदानां सामवेदकः
जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु
क्रतूनां राजसूयो यो गायत्री छन्दसां च यः
क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः