मनोहरं दिव्यतल्पं कस्तूर्यगरुचन्दनैः
ततः षडंगं सम्पूज्य पश्चात्स म्पूजयेद्गणम्
हरिभानुं चन्द्रभानुं सूर्य्यभानुं सुभानुकम्
गोपीश्वरीं राधिकां च मूलप्रकृतिमीश्वरीम् 3.32.
गोपगोपीगणं शान्तं मां ब्रह्माणं च पार्वतीम्
देवषट्कं समभ्यर्च्य पुनः पञ्चोपचारतः
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
गणेशं विघ्ननाशाय व्याधिनाशाय भास्करम्
ज्ञानाय शङ्करं दुर्गां परमैश्व र्य्यहेतवे
ततः कृत्वा परीहारमिष्टदेवं च भक्तितः
महादेव उवाच निर्लिप्तं परमात्मानं नमाम्यखिलकारणम्
स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम्
साकारं च निराकारं सगुणं निर्गुणं प्रभुम्
अतीव कमनीयं च रूपं निरुपमं विभुम् 3.32.
कर्म्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः
स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः
स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान्
स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया
तारकं सर्वदुःखानां सर्वकारणकारणम्
तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः
रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः
प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम्
देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् नारीणां शतरूपा च बहुरूपं नमाम्यहम्
ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः 3.32.
सागरः सरितां यश्च पर्वतानां हिमालयः
पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम्
पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च
ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम्
तैजसानां सुवर्णं च धान्यानां यव एव च
यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः