गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत्
सदैव माधवः पातु बलिहारी महाबलः
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
| मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित्
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः
राजसूयसहस्राणि वाजपेयशतानि च 3.31.
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा
व्रतोपवासनियमं स्वाध्यायाध्ययनं तपः
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम्
इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः
गृहीत्वा कवचं वत्स महीं निःक्षत्रियां कुरु
राज्यं देयं शिरो देयं प्राणा देयाश्च पुत्रक
भृगुरुवाच सुखदं मोक्षदं सारं शत्रुसंहारकारणम्
अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो
महादेव उवाच मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुंगवः तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम्
मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा
| ध्यानं च सामवेदोक्तं शृणु मन्मुखतो मुने
नवीनजलदश्यामं नीलेन्दीवरलोचनम्
चन्दनोक्षितसर्वांगं पीताम्बरधरं वरम् 3.32.
प्रफुल्लमालतीमालावनमाला विभूषितम्
प्रभां क्षिपन्तीं नभसश्चन्द्रतारान्वितस्य च
सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम्
ध्यानेनानेन तं ध्यात्वा चोपचारांस्तु षोडश
अर्घ्यं पाद्यं चासनं च वसनं भूषणं तथा
धूपदीपौ च नैवेद्यं पुनराचमनीयकम्