ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु
ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा
ॐ गोपीरमणनाथाय पादौ पातु सदा मम
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु 3.31.
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत्
सदैव माधवः पातु बलिहारी महाबलः
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
| मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित्
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः
राजसूयसहस्राणि वाजपेयशतानि च 3.31.
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा
व्रतोपवासनियमं स्वाध्यायाध्ययनं तपः
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम्
इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः
गृहीत्वा कवचं वत्स महीं निःक्षत्रियां कुरु
राज्यं देयं शिरो देयं प्राणा देयाश्च पुत्रक
भृगुरुवाच सुखदं मोक्षदं सारं शत्रुसंहारकारणम्
अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो
महादेव उवाच मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुंगवः तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम्
मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने