दातव्यं कृष्णभक्ताय साधवे च महात्मने
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः
त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम्
ॐ गोविंदाय स्वाहेति नासिकां पातु सन्ततम्
ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम
ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा 3.31.
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम
ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु
ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा
ॐ गोपीरमणनाथाय पादौ पातु सदा मम
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु 3.31.
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत्
सदैव माधवः पातु बलिहारी महाबलः
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्
| मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित्
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः
राजसूयसहस्राणि वाजपेयशतानि च 3.31.
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा