इत्युक्त्वा शंकरस्तस्मै ददौ मन्त्रं सुदुर्लभम्
स्तवं पूजाविधानं च पुरश्चरणपूर्वकम्
सिद्धिस्थानं कालसंख्यं कथयामास नारद
नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्लभम्
गान्धर्वं गारुडं चैव जृम्भणास्त्रं तथैव च
नानाप्रकारशस्त्रास्त्रमन्त्रं च विधिपूर्वकम्
आत्मरक्षणसन्धानं संग्रामविजयक्रमम्
रक्षणं च स्वसैन्यानां परसैन्यविमर्दनम् संहारे मोहिनीं विद्यां ददौ मृत्युहरां हरः
स्थित्वा चिरं गुरोर्वांसे सर्वविद्यां विबोध्य सः
नारद उवाच कृपयाऽदात्परशुरामाय स्तोत्रं च वर्म च
को वाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च
नारायण उवाच गोलोकनाथः श्रीकृष्णो गोपगोपीश्वरः प्रभुः
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्
मन्त्रं कल्पतरुं नाम सर्वकामफलप्रदम्
स्वयंप्रभानदीतीरे पारिजातवनान्तरे
महादेव उवाच पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम्
श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् 3.31.
यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी
यद्धृत्वाऽहं च जगतां संहर्त्ता सर्वतत्त्ववित्
यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम्
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया
यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः
अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा
यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः
यद्धृत्वा जगतां लक्ष्मीरन्नदात्री परात्परा 3.31.
वेदाश्च धर्म्मवक्तारो यद्धृत्वा पठनाद् भृगो सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः