शक्रादयः सुरगणाः कलया यस्य सम्भवाः
स्त्रीरूपं क्लीबरूपं च पौरुषं च बिभर्ति यः
यं भास्करस्वरूपं च शशिरूपं हुताशनम्
अनन्तविश्वसृष्टीनां संहर्तारं भयंकरम्
यः कालः कालकालश्च कलिर्बीजं च कालजः
इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे
जामदग्न्यकृतं स्तोत्रं यः पठेद्भक्तिसंयुतः
शंकर उवाच किं वा तेऽहं करिष्यामि वाञ्छितं वद साम्प्रतम्
पार्वत्युवाच वयसाऽतिशिशुं शान्तं गुणेन गुणिनां वरम्
] भृगुरुवाच रेणुकाऽम्बा मे परशुरामोऽहं नामतः प्रभो
क्रीणीहि मां दयासिन्धो विद्यापण्येन किंकरम्
मृगयामागतं भूपं पिता मे चोपवासिनम्
राजा तं कपिलालोभाद्घातयामास मन्दधीः
माताऽनुगमनं चक्रे ह्यनाथोऽहं च साम्प्रतम्
मया कृता प्रतिज्ञा च शोकेनैवातिदुष्करा
कार्तवीर्य्यं हनिष्यामि समरे तातघातकम्
ब्राह्मणस्य वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः
पार्वत्युवाच त्रिस्सप्तकृत्वः कोपेन साहसस्ते महान्बटो
हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम्
तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं बटो
हरेर्म्मन्त्रं संस्तवनं यः पठेच्च दिवानिशम्
अये विप्र गृहं गच्छ किं करिष्यति शंकरः
काल्युवाच यथा हि वामनश्चन्द्रं करेणाहर्तुमिच्छति
कृतयज्ञान्महापुण्यान्महाबलपराक्रमान्
स तयोर्वचनं श्रुत्वा रुरोदोच्चैश्च शोकतः
विप्रस्य रोदनं श्रुत्वा शंकरः करुणानिधिः
तयोरनुमतिं प्राप्य सर्वेशो भक्तवत्सलः
शंकर उवाच दास्यामि मन्त्रं गुह्यं ते त्रिषु लोकेषु दुर्ल्लभम्
एवंभूतं च कवचं दास्यामि परमाद्भुतम्
त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं द्विज