आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः
शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा
नानाप्रकारचित्रेण चित्रितं सुमनोहरम्
महाकरालदन्तास्यौ विरक्तौ रक्तलोचनौ
विभूतिभूषितांगौ च व्याघ्रचर्माम्बरौ वरौ
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा
विनयेन विनीतश्च दुर्विनीतौ महाबलौ
विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ
प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः
दृष्ट्वा ता महदाश्चर्य्यादपश्यच्छूलिनः सभाम्
पारिजातसुगन्धाढ्यवायुना सुरभीकृताम्
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम् रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
महाशिवं शिवकरं शिवबीजं शिवाश्रयम्
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम्
धृतवन्तं जटाजालं दक्षकन्यासमन्वितम्
शुद्धस्फटिकसंकाशं पञ्च वक्त्रं त्रिलोचनम्
स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम्
ध्यायमानं परं ब्रह्म परिपूर्णतमं परम्
ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् सुस्वरं साश्रुनेत्रं तमुद्गायन्तं गुणार्णवम्
भूतेन्द्रैर्वै रुद्रगणैः क्षेत्रपालैश्च वेष्टितम्
तद्वामे कार्त्तिकेयं च दक्षिणे च गणेश्वरम् अंके ददर्श कान्तां तां गौरीं शैलेन्द्रकन्यकाम्
ननाम सर्वान्मूर्ध्ना च भक्त्या च परया मुदा
सगद्गदपदं दीनस्साश्रुनेत्रोऽतिकातरः
परशुराम उवाच अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम्
न योजनां कर्त्तुमीशो देवेशं स्तौमि मूढधीः
वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम्
यमाकाशमिवाद्यन्तमध्यहीनं तथाऽव्ययम्
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम्
अद्य मे सफलं जन्म जीवितं च सुजीवितम्