मनोयायी स योगीन्द्रः शिवलोकं ददर्श ह
योगीन्द्राणां वरेण्यैश्च सिद्धविद्याविशारदैः
वेष्टितं कल्पवृक्षाणां समूहैर्वाञ्छितप्रदैः
पारिजाततरूणां च वनराजिविराजितम्
मणीन्द्रसाररचितैः शोभितैर्मणिवेदिभिः
मणीन्द्रासारनिर्माणशतकोटिगृहैर्युतम्
तन्मध्यदेशे रम्ये च ददर्श शङ्करालयम्
अत्यूर्ध्वमम्बरस्पर्शि क्षीरनीरनिभं परम्
अमूल्यरत्नरचितै रत्नसोपानभूषितैः
माणिक्यजालमालाभिः सद्रत्नकलशोज्ज्वलैः
आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः
शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा
नानाप्रकारचित्रेण चित्रितं सुमनोहरम्
महाकरालदन्तास्यौ विरक्तौ रक्तलोचनौ
विभूतिभूषितांगौ च व्याघ्रचर्माम्बरौ वरौ
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा
विनयेन विनीतश्च दुर्विनीतौ महाबलौ
विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ
प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः
दृष्ट्वा ता महदाश्चर्य्यादपश्यच्छूलिनः सभाम्
पारिजातसुगन्धाढ्यवायुना सुरभीकृताम्
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम् रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
महाशिवं शिवकरं शिवबीजं शिवाश्रयम्
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम्
धृतवन्तं जटाजालं दक्षकन्यासमन्वितम्
शुद्धस्फटिकसंकाशं पञ्च वक्त्रं त्रिलोचनम्
स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम्
ध्यायमानं परं ब्रह्म परिपूर्णतमं परम्
ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् सुस्वरं साश्रुनेत्रं तमुद्गायन्तं गुणार्णवम्