तौ दम्पती च वैकुण्ठे तस्थतुर्हरिसन्निधौ
अथ रामो ब्राह्मणैश्च भृगुणा सह नारद
गोभूहिरण्यवासांसि दिव्यशय्यां मनोरमाम्
रत्नदीपं रौप्यशैलं सुवर्णासनमुत्तमम्
छत्रं च पादुके चैव फलं माल्यं मनोहरम् ब्राह्मणेभ्यो धनं दत्त्वा ब्रह्मलोकं जगाम सः
ददर्श ब्रह्मलोकं स शातकुम्भविनिर्मितम्
ददर्श तत्र ब्रह्माणं ज्वलन्तं ब्रह्मतेजसा
सिद्धैस्तपश्चान्द्रायणैर्ऋषीन्द्रैः परिवेष्टितम्
संगीतमुपशृण्वन्तं गीयमानं च गायकैः
तपसां फलदातारं दातारं सर्वसम्पदाम्
परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम्
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः
भृगुरुवाच पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम्
मृगयामागतं भूपं पिता मे चोपवासिनम्
स राजा कपिलालोभात्कार्तवीर्य्यार्जुनः स्वयम्
निरुध्य बाष्पं स पुनरुवाच करुणानिधिः
अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः
आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया
स राजा स च धर्मिष्ठः स दयालुर्यशस्करः
धनिदीनौ समं दृष्ट्वा यः प्रजां न च पालयेत्
श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः
श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः
कर्मणा तद्भवेत्सर्वमिति कृत्वा तु मानसे
ब्रह्मोवाच सृष्टिरेषा भगवतः सम्भवेदीश्वरेच्छया
सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम्
ब्रह्मक्षत्त्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः
अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते
शिवलोकं गच्छ वत्स शङ्करं शरणं व्रज
विनाऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः