इत्युक्त्वा विरहार्त्ता सा कन्या चित्ररथस्य च 1.13.
विचेतना तत्र तस्थौ कान्तं कृत्वा स्ववक्षसि
प्रभाते चेतनां प्राप्य विललाप भृशं मुहुः
मालावत्युवाच त्वमेव जगतां पाता मां न पासि कथं प्रभो
अयं भर्त्ताऽस्य भार्य्याऽहं ममेति तव मायया
गन्धर्वः कर्मणा कान्तः कान्ताऽहं चास्य कर्मणा
को वा कस्य पतिः पुत्रः का वा कस्य प्रिया प्रभो ।। संयुनक्ति विधाता च विनयुक्ति च कर्मणा
संयोगे परमानन्दो वियोगे प्राणसङ्कटम्
नश्वरो विषयः सत्यं भुवि भोगश्च बान्धवः
तस्मात्सन्तः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम्
सर्वत्र ज्ञानिनः सन्तः का स्त्री ज्ञानवती भुवि 1.13.
न मे वाञ्छाऽमरत्वे च शक्रत्वे मोक्षवर्त्मनि
यावती कामिनीजातिर्जगत्यां जगदीश्वर
तस्मै दत्ता गुणाः सर्वे रूपाणि विविधानि च
रूपेण च गुणेनैव तेजसा विक्रमेण च
हरिभक्तो हरिसमो गाम्भीर्ये सागरो यथा
चन्द्रतुल्यः सुदृश्यश्च कन्दर्पसमसुन्दरः
वाणी च सर्वशास्त्रज्ञा प्रतिभायां भृगोरिव
धर्मे धर्मसमो धर्मी सत्ये सत्यव्रताधिकः
ऐश्वर्य्ये शक्रतुल्यश्च सहिष्णुः पृथिवीसमः
अरे सुरा यज्ञभाजो घृतं भोक्तुं क्षमा भुवि 1.13.
नारायण जगत्कान्त नाहमेव जगद्बहिः
प्रजापते पुत्रशापात्त्वमपूज्यो महीतले
हे शम्भो ज्ञानलोपं ते करिष्यामि शपेन च
यमाधिकारं दूरे च करिष्यामि न संशयः
शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना
इत्युक्त्वा कौशिकीतीरे चागच्छच्छप्तुमेव तान्
तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा देवपुरोगमः
तत्र स्नात्वा च तुष्टाव परमात्मानमीश्वरम्
ब्रह्मोवाच कान्तहेतोश्च मा देवाञ्छपेत्त्वं रक्ष माधव