विशेषो नास्ति भक्तानां तीर्थे वाऽन्यत्र नारद
तयोः पातो नास्ति तस्मान्महति प्रलयं सति
तीर्थे ज्ञानमृतश्चापि वैकुण्ठं याति निश्चितम्
इत्युक्त्वा रेणुकां तत्र जामदग्न्यमुवाच ह
एहि वत्स महाभाग त्यज शोकममङ्गलम्
वस्त्रयज्ञोपवीतं च नूतनं परिधापय
अरणीसंभवाग्निं च गृहाण प्रीतिपूर्वकम्
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः
कौशिकीं चन्द्रभागां च सर्वपापप्रणाशिनीम्
पुष्पभद्रां च भद्रां च नर्मदां च सरस्वतीम्
रैवतं च वराहं च श्रीशैलं गन्धमादनम्
वाराणसीं प्रयागं च पुण्यं वृन्दावनं वनम्
चन्दनागरुकस्तूरीसुगन्धिकुसुमं तथा
कर्णाक्षिनासिकास्ये त्वं शलाकां च हिरण्मयीम्
सतिलं ताम्रपात्रं च धेनुं च रजतं तथा
ॐ कृत्वा दुष्कृतं कर्म्म जानता वाऽप्यजानता
धर्माधर्मसमायुक्तं लोभमोहसमावृतम्
इमं मन्त्रं पठित्वा तु तातं कृत्वा प्रदक्षिणम्
ॐ अस्मत्कुले त्वं जातोऽसि त्वदीयो जायतां पुनः
अग्निं देहि शिरःस्थाने हे भृगो भ्रातृभिः सह
अथ पुत्रं रेणुका सा कृत्वा तत्र स्ववक्षसि
अविरोधो भवाब्धौ च सर्वमङ्गलमङ्गलम्
अकर्तव्यो विरोधो वै दारुणैः क्षत्रियैः सह
आलोच्य ब्रह्मणा सार्द्धं भृगुणा दिव्यमन्त्रिणा
इत्युक्त्वा तं परित्यज्य कान्तं कृत्वा स्ववक्षसि
वह्निं ददौ चितायां च स रामो भ्रातृभिः सह
राम रामेति रामेति वाक्यमुच्चार्य्य सा सती
भर्तुर्नाम समाकर्ण्य तत्राजग्मुर्हरेश्चराः
शङ्खचक्रगदापद्मधारिणो वनमालिनः
रथे कृत्वा रेणुकां तां गत्वा ते ब्रह्मणः पदम्