भृगुरुवाच जलबुद्बुदवत्सर्वं संसारे च चराचरम्
सत्यसारं सत्यबीजं कृष्णं चिन्तय पुत्रक
यद्भवेत्तद्भवत्येव भविता यद्भविष्यति
भूतं भव्यं भविष्यं च यत्कृष्णेन निरूपितम्
मायाबीजं मायिनां च शरीरं पाञ्चभौतिकम्
क्षुधा निद्रा दया शान्तिः क्षमा कान्त्यादयस्तथा
बुद्धिश्च शक्तयः सर्वा राजेन्द्रमिव किंकराः
के वा केषां च पितरः के वा केषां सुताः सुत
ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्र साम्प्रतम्
संकेताख्योच्चारणेन यद्रुदन्ति च बान्धवाः पार्थिवांशं च पृथिवी गृह्णात्यस्थित्वचादिकम्
तोयांशं च तथा तोयं शून्यांशं गगनं तथा
सर्वे विलीनाः सर्वेषु को वाऽऽयास्यति रोदनात्
वेदोक्तं चैव यत्कर्म कुरु तत्पारलौकिकम्
भृगोस्तद्वचनं श्रुत्वा शोकं तत्याज तत्क्षणम्
रेणुकोवाच ।। ब्रह्मन्ननुगमिष्यामि प्राणनाथस्य साम्प्रतम् । ऋतोश्चतुर्थदिवसे मृतोऽयं चाद्य मानदः
कर्त्तव्या का व्यवस्थाऽत्र वद वेदविदां वर
भृगुरुवाच चतुर्थदिवसं शुद्धं स्वामिनः सर्वकर्मसु
शुद्धा भर्त्तुश्चतुर्थेऽह्नि न शुद्धा दैवपित्र्ययोः
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात्
मोदते स्वामिना तत्र यावदिन्द्राश्चतुर्दश
स पुत्रो भक्तिदाता यः सा च स्त्री याऽनुगच्छति
सोऽभीष्टदेवो यो रक्षेत्स राजा पालयेत्प्रजाः
स गुरुर्धर्मदाता यो हरिभक्तिप्रदायकः
रेणुकोवाच का वाऽप्यशक्ता नारीषु तन्मे ब्रूहि तपोधन
भृगुरुवाच रजस्वला च कुलटा गलितव्याधिसंयुता
पतिसेवाविहीना या ह्यभक्ता कटुभाषिणी
संस्कृताग्निं पुरो दत्त्वा चितासु शयितं पतिम्
अनुगच्छन्ति याः कान्तं तमेव प्राप्नुवन्ति ताः
इयं ते कथिता साध्वि व्यवस्था गृहिणां ध्रुवम्
या साध्वी वैष्णवं कान्तं यत्र यत्रानुगच्छति