अथ राजा महाक्रुद्धो ददर्श स्वसमीपतः
जग्राह नत्वा दत्तं तं स नत्वा शक्तिमुल्बणाम्
यत्तेजः सर्वदेवानां तेजो नारायणस्य च
तत्रैवावाहयामास स योगी मन्त्रपूर्वकम्
दृष्ट्वा क्षिपन्तीं तां देवा हाहाकारेण चुक्रुशुः
चिक्षेप तां चूर्णयित्वा कार्तवीर्य्यार्जुनः स्वयम्
विदार्य्योरो मुनेः शक्तिर्जगाम हरिसन्निधिम्
मूर्च्छां सम्प्राप्य स मुनिः प्राणांस्तत्याज तत्क्षणम्
युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः
सर्वं सा कथयामास गोलोके कृष्णमीश्वरम्
कृष्णेन ब्रह्मणे दत्ता ब्रह्मणा भृगवे पुरा
नत्वा च कामधेनूनां समूहं सा जगाम ह
अथ राजा तं निहत्य बोधयित्वा स्वसैन्यकम्
प्राणनाथं मृतं श्रुत्वा जगाम रेणुका सती
ततः सा चेतनां प्राप्य न रुरोद पतिव्रता
आजगाम भृगुस्तूर्णं क्षणाद्वै पुष्करादहो
दृष्ट्वा रामो मृतं तातं शोकार्तां जननीं सतीम्
विललाप भृशं तत्र हे तात जननीति च
रेणुका राममादाय तूर्णं कृत्वा स्ववक्षसि
राम राम महाबाहो क्व यामि त्वां विहाय च
मत्प्राणाधिक हे वत्स मदीयं वचनं शृणु
गृहे तिष्ठ सुखं वत्स तपस्यां कुरु शाश्वतीम्
मातुर्वचनमश्रुत्वा प्रतिज्ञां तां चकार ह
कार्तवीर्यं हनिष्यामि लीलया क्षत्रियाधमम्
इत्युदीर्य्य पुरो मातुर्विललाप मुहुर्मुहुः
राम उवाच यो न हन्ति महामूढो रौरवं स व्रजेद् ध्रुवम्
सततं मन्दकारी च निन्दकः कटुजल्पकः
द्विजानां द्रविणादानं स्थानान्निर्वासनं सति
एतस्मिन्नन्तरे तत्र चाजगाम भृगुः स्वयम्
दृष्ट्वा तं रेणुकारामौ विनतौ संबभूवतुः