राजेन्द्राणां सहस्रं च महाबलपराक्रमम्
सर्वतो वेष्टयामास जमदग्न्याश्रमं मुदा
सैन्यशब्दैर्वाद्यशब्दैर्महाकोलाहलैर्मुने
कुटीं प्रविश्य बलवान्गृहीत्वा कपिलां शुभाम्
समुत्तस्थौ मुनिश्रेष्ठो गृहीत्वा सशरं धनुः
आश्रमस्थाञ्जनान्सर्वान्समाश्वास्य च यत्नतः
निर्ममे शरजालं च स मुनिर्मन्त्रपूर्वकम्
अपरं शरजालं च निर्ममे मुनिपुङ्गवः
मुनिना शरजालेन सर्वसैन्यं समावृतम्
राजा दृष्ट्वा मुनिश्रेष्ठमवरुह्य रथात्पुरः
नत्वाऽऽरुरोह यानं स मुनेः प्राप्य शुभाशिषः
नृपैः सार्द्धं नृपश्रेष्ठश्चिक्षेप मुनिपुङ्गवे मुनिश्चिक्षेप दिव्यास्त्रं चिच्छिदे लीलया नृपः
शूलं चिक्षेप नृपतिस्तञ्जघान तदा मुनिः
शस्त्रौघैर्दुर्निवार्य्यैश्च खण्डं खण्डं चकार च सः
जृम्भणास्त्रेण मुनिना ते च सर्वे विजृम्भिताः
राजानं निद्रितं दृष्ट्वा न जघान मुनीश्वरः बोधयित्वा पुरः कृत्वा स्वाश्रमं गन्तुमुद्यतः
एतस्मिन्नन्तरे राजा चेतनां प्राप्य नारद
जगाम कपिला त्रस्ता स्वस्थानं च रणाजिरात्
ब्रह्मास्त्रं च नृपश्रेष्ठः स चिक्षेप मुनौ तदा
दिव्यास्त्रेण मुनिश्रेष्ठो नृपस्य सशरं धनुः
अथ राजा महाक्रुद्धो ददर्श स्वसमीपतः
जग्राह नत्वा दत्तं तं स नत्वा शक्तिमुल्बणाम्
यत्तेजः सर्वदेवानां तेजो नारायणस्य च
तत्रैवावाहयामास स योगी मन्त्रपूर्वकम्
दृष्ट्वा क्षिपन्तीं तां देवा हाहाकारेण चुक्रुशुः
चिक्षेप तां चूर्णयित्वा कार्तवीर्य्यार्जुनः स्वयम्
विदार्य्योरो मुनेः शक्तिर्जगाम हरिसन्निधिम्
मूर्च्छां सम्प्राप्य स मुनिः प्राणांस्तत्याज तत्क्षणम्
युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः
सर्वं सा कथयामास गोलोके कृष्णमीश्वरम्