आग्नेयं योजयामास समरे नृपपुंगवः
नृपेन्द्रो वारुणास्त्रं च चिक्षेप समरे मुनौ
वायव्यास्त्रं नृपश्रेष्ठश्चिक्षेप समरे तदा
नागास्त्रं च नृपश्रेष्ठश्चिक्षेप रणमूर्द्धनि
माहेश्वरं महास्त्रं च शतसूर्य्यसमप्रभम्
वैष्णवास्त्रेण दिव्येन त्रिलोकव्यापकेन च
मुनिर्नारायणास्त्रं च चिक्षिपे मन्त्रपूर्वकम्
ऊर्ध्वं च भ्रमणं कृत्वा क्षणं दीप्त्वा दिशो दश
जृम्भणास्त्रं च स मुनिश्चिक्षेप रणमूर्द्धनि
दृष्ट्वा नृपं निद्रितं तं चार्द्धचन्द्रेण तत्क्षणम्
मुकुटं च क्षुरप्रेण च्छत्रं सन्नाहमेव च
मुनिस्तत्सचिवान्सर्वान्नागास्त्रेणैव लीलया
मुनिस्तं बोधयामास सुमन्त्रेणैव लीलया
दर्शयित्वा नृपं तांश्च मोचयामास तत्क्षणम्
राजा कोपात्समुत्थाय शूलमुद्यम्य यत्नतः
एतस्मिन्नन्तरे ब्रह्मा समागत्य रणस्थलम्
मुनिर्ननाम ब्रह्माणं सन्तुष्टश्च रणस्थले
मुनिर्ययौ स्वाश्रमं च स्व लोकं कमलोद्भवः
नारायण उवाच आजगाम महारण्ये जमदग्न्याश्रमं पुनः
रथानां च चतुर्लक्षं रथिनां दशलक्षकम्
राजेन्द्राणां सहस्रं च महाबलपराक्रमम्
सर्वतो वेष्टयामास जमदग्न्याश्रमं मुदा
सैन्यशब्दैर्वाद्यशब्दैर्महाकोलाहलैर्मुने
कुटीं प्रविश्य बलवान्गृहीत्वा कपिलां शुभाम्
समुत्तस्थौ मुनिश्रेष्ठो गृहीत्वा सशरं धनुः
आश्रमस्थाञ्जनान्सर्वान्समाश्वास्य च यत्नतः
निर्ममे शरजालं च स मुनिर्मन्त्रपूर्वकम्
अपरं शरजालं च निर्ममे मुनिपुङ्गवः
मुनिना शरजालेन सर्वसैन्यं समावृतम्
राजा दृष्ट्वा मुनिश्रेष्ठमवरुह्य रथात्पुरः