मुनिः शुभाशिषं दत्त्वा राजानं त्वालिलिङ्ग सः
नवनीतं हि हृदयं ब्राह्मणानां तु सन्ततम् उवाच तं मुनिश्रेष्ठो गृहं गच्छ धराधिप
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे जमदग्निकार्तवीर्यार्जुनयुद्धवर्णनं नाम पञ्चविंशोऽध्यायः
नारायण उवाच हितं सत्यं नीतिसारं प्रवक्तुसुपचक्रमे
मुनिरुवाच सर्वसम्पत्स्थिरा शश्वत्स्थिते धर्मे सुनिश्चितम्
त्वां च दृष्ट्वा निराहारं समानीय गृहं नृप । साम्प्रतं मूर्छितं दृष्ट्वा पादरेणुं शुभाशिषम्
नृपस्तद्वचनं श्रुत्वा प्रणम्य मुनिपुंगवम्
मुनिः कृत्वा च सन्नाहं तं योद्धुमुपचक्रमे
कपिलादत्तशस्त्रेण न्यस्तशस्त्रं चकार तम्
पुनश्च चेतनां प्राप्य राजा राजीवलोचनः
आग्नेयं योजयामास समरे नृपपुंगवः
नृपेन्द्रो वारुणास्त्रं च चिक्षेप समरे मुनौ
वायव्यास्त्रं नृपश्रेष्ठश्चिक्षेप समरे तदा
नागास्त्रं च नृपश्रेष्ठश्चिक्षेप रणमूर्द्धनि
माहेश्वरं महास्त्रं च शतसूर्य्यसमप्रभम्
वैष्णवास्त्रेण दिव्येन त्रिलोकव्यापकेन च
मुनिर्नारायणास्त्रं च चिक्षिपे मन्त्रपूर्वकम्
ऊर्ध्वं च भ्रमणं कृत्वा क्षणं दीप्त्वा दिशो दश
जृम्भणास्त्रं च स मुनिश्चिक्षेप रणमूर्द्धनि
दृष्ट्वा नृपं निद्रितं तं चार्द्धचन्द्रेण तत्क्षणम्
मुकुटं च क्षुरप्रेण च्छत्रं सन्नाहमेव च
मुनिस्तत्सचिवान्सर्वान्नागास्त्रेणैव लीलया
मुनिस्तं बोधयामास सुमन्त्रेणैव लीलया
दर्शयित्वा नृपं तांश्च मोचयामास तत्क्षणम्
राजा कोपात्समुत्थाय शूलमुद्यम्य यत्नतः
एतस्मिन्नन्तरे ब्रह्मा समागत्य रणस्थलम्
मुनिर्ननाम ब्रह्माणं सन्तुष्टश्च रणस्थले
मुनिर्ययौ स्वाश्रमं च स्व लोकं कमलोद्भवः
नारायण उवाच आजगाम महारण्ये जमदग्न्याश्रमं पुनः
रथानां च चतुर्लक्षं रथिनां दशलक्षकम्