अथवा न ददासि त्वं न गमिष्यामि ते गृहात्
कथं रोदिषि सर्वज्ञ मायामोहितचेतनः
त्वं वा को मे तवाहं का सम्बन्धः कालयोजितः
मनो जानाति यद्द्रव्यमात्मीयं चेति केवलम्
इत्युक्त्वा कामधेनुश्च सुषाव विविधानि च
निर्गताः कपिलावक्त्रात्त्रिकोट्यः खड्गधारिणाम्
विनिस्सृता लोचनाभ्यां शतकोटिधनुर्द्धरा
वक्षस्स्थलान्निस्सृताश्च त्रिकोट्यश्शक्तिधारिणाम्
विनिस्सृताः पादतलाद्वाद्यभाण्डाः सहस्रशः
विनिर्गता गुह्यदेशात्त्रिकोटिम्लेच्छजातयः।। दत्त्वा सैन्यानि कपिला मुनये चाभयं ददौ। युद्धं कुर्वन्तु सैन्यानि त्वं न याहीत्युवाच ह
मुनिः सम्भूतसम्भारैर्हर्षयुक्तो बभूव ह
कपिलासैन्यवृत्तान्तमात्मवर्गपराजयम् दूतान्त्संप्रेष्य सैन्यानि चाजहार स्वदेशतः
नारायण उवाच दूतं प्रस्थापयामास कुपितो मुनिसन्निधिम्
युद्धं देहि मुनिश्रेष्ठ किं वा धेनुं च वाञ्छिताम्
दूतस्य वचनं श्रुत्वा जहास मुनिपुंगवः
मुनिरुवाच विविधं च यथाशक्त्या भोजितश्च यथोचितम्
कपिलां याचते राजा मम प्राणाधिकां प्रियाम्
मुनेस्तद्वचनं श्रुत्वा दूतः सर्वमुवाच ह
मुनिश्च कपिलामाह साम्प्रतं किङ्करोम्यहम्
कपिला च ददौ तस्मै शस्त्राणि विविधानि च
जयं भवतु ते विप्र युद्धे जेष्यसि निश्चितम्
नृपेण सार्द्धं ते युद्धमयुक्तं ब्राह्मणस्य च इत्युक्त्वा कपिला ब्रह्मन्विरराम मनस्विनी
मुनिर्मनस्वी सैन्यं च सज्जीकृत्य ततो मुने
राजा जगाम युद्धाय ननाम मुनिपुंगवम्
राजसैन्यं जितं सर्वं कपिलासेनया बलात्
धनुश्चिच्छेद सज्यं तत्सा सेना कापिली मुदा
सैन्यानि तं शस्त्रवृष्ट्या न्यस्तशस्त्रं चकार ह
किञ्चिच्छिष्टं बलं राज्ञः किंचिदेव पलायितम्
कृपानिधिश्च कृपया तत्सैन्यं सञ्जहार च
नृपाय मुनिना शीघ्रं दत्ताश्चरणरेणवः कमण्डलुजलं प्रोक्ष्य जीवयामास तं नृपम्