तेन कुर्वन्ति सन्तश्च सन्ततं कर्मणः क्षयम्
सा माता स पिता पुत्रस्तत्क्षयं कारयेत्तु यः
भक्तवैद्यस्तं निहन्ति कृष्णभक्तिरसायनात्
परितुष्टा जगद्धात्री भक्तेभ्यो बुद्धिदायिनी
मायां तस्मै मोहयितुं न विवेकं कदाचन
राजोवाच मह्यं भक्ताय भक्तेश भक्तानुग्रहकारक
युष्मद्विधानां दातॄणामदेयं नास्ति भारते
भ्रूभंगलीलामात्रेण तपोराशे तपोधन
मुनिरुवाच दानं दास्यामि विप्रोऽहं क्षत्रियाय कथं नृप
कृष्णेन दत्ता गोलोके ब्रह्मणे परमात्मना
ब्रह्मणा भृगवे दत्ता प्रियपुत्राय भूमिप
गोलोकजा कामधेनुर्दुर्लभा भुवनत्रये
नाहं रे हालिको मूढस्तुत्या नोत्थापितो बुधः
गृहं गच्छ गृहं गच्छ मे कोपं नैव वर्द्धय
मुनेस्तद्वचनं श्रुत्वा चुकोप स नराधिपः
गत्वा सैन्यसकाशं स कोपप्रस्फुरिताधरः
कपिलासन्निधिं गत्वा रुरोद मुनिपुंगवः
रुदन्तं ब्राह्मणं दृष्ट्वा सुरभिस्तमुवाच ह
सुरभिरुवाच शास्ता पालयिता दाता स्ववस्तूनां च सन्ततम्
स्वेच्छया चेन्नृपेन्द्राय मां ददासि तपोधन
अथवा न ददासि त्वं न गमिष्यामि ते गृहात्
कथं रोदिषि सर्वज्ञ मायामोहितचेतनः
त्वं वा को मे तवाहं का सम्बन्धः कालयोजितः
मनो जानाति यद्द्रव्यमात्मीयं चेति केवलम्
इत्युक्त्वा कामधेनुश्च सुषाव विविधानि च
निर्गताः कपिलावक्त्रात्त्रिकोट्यः खड्गधारिणाम्
विनिस्सृता लोचनाभ्यां शतकोटिधनुर्द्धरा
वक्षस्स्थलान्निस्सृताश्च त्रिकोट्यश्शक्तिधारिणाम्
विनिस्सृताः पादतलाद्वाद्यभाण्डाः सहस्रशः
विनिर्गता गुह्यदेशात्त्रिकोटिम्लेच्छजातयः।। दत्त्वा सैन्यानि कपिला मुनये चाभयं ददौ। युद्धं कुर्वन्तु सैन्यानि त्वं न याहीत्युवाच ह