सूत उवाच एकदन्तस्य चरितं प्रवक्तुमुपचक्रमे
नारायण उवाच एकदन्तस्य चरितं सर्वमंगलमंगलम्
एकदा कार्त्तवीर्य्यश्च जगाम मृगयां मुने
निशामुखे दिनेऽतीते तत्र तस्थौ वने नृपः
प्रातः सरोवरे राजा स्नातः शुचिरलंकृतः
मुनिर्ददर्श राजानं शुष्ककण्ठौष्ठतालुकम्
ननाम सम्भमाद्राजा मुनिं सूर्य्यसमप्रभम्
वृत्तान्तं कथयामास राजा चानशनादिकम्
विज्ञाप्य तं मुनिश्रेष्ठः प्रययौ स्वालयं मुदा
उवाच सा मुनिं भीतं भयं किं ते मम स्थितौ
राजभोजनयोग्यार्हं यद्यद्द्रव्यं प्रयाचसे
सौवर्णानि च रौप्याणि पात्राणि विविधानि च
पात्राणि स्वादुपूर्णानि प्रददौ मुनये च सा
पनसाम्रश्रीफलानि नारिकेलादिकानि च
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च
दुग्धानां च घृतानां च नदीर्दध्नां ददौ मुदा
पृथुकानां सुशालीनां पर्वतान्प्रददौ मुदा
नृपयोग्यं कौतुकाच्च सुन्दरं वस्त्रभूषणम्
भोजयामास राजानं ससैन्यमपि लीलया जगाम विस्मयं राजा दृष्ट्वा पात्राण्युवाच ह
राजोवाच ममासाध्यानि सहसा क्वागतान्यवलोकय
नृपाज्ञया च सचिवः सर्वं दृष्ट्वा मुनेर्गृहे
सचिव उवाच वह्निकुण्डं यज्ञकाष्ठकुशपुष्पफलान्वितम्
कृष्णचर्मस्रुवस्रुग्भिः शिष्यसंघैश्च संकुलम्
वृक्षचर्मपरीधाना दृष्टाः सर्वे जटाधराः
चार्वंगी रुद्रवर्णाभा रक्तपङ्कजलोचना
सर्वसम्पद्गुणाधारा साक्षादिव हरिप्रिया
मुनिं ययाचे तां धेनुं निबद्धः कालपाशतः
पुण्यवान्बुद्धिमान्दैवाद्राजेन्द्रो ऽयाचत द्विजम्
पापात्प्रजायते कर्म पापरूपं भयावहम्
पापाद्भुक्त्वा च नरकं कुत्सितं जन्म जीविनाम्