यत्कर्म दक्षिणाहीनं कुरुते मूढधीः शठः
मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः
विवाहं धर्मकार्यं वा यो निहन्ति च कोपतः
इत्युक्त्वा सा महालक्ष्मीरन्तर्द्धानं जगाम ह
तां प्रणम्य सुराः सर्वे मुनयश्च मुदाऽन्विताः
नेदुर्दुन्दुभयः स्वर्गे बभूवुः पुष्पवृष्टयः
इत्येवं कथितं वत्स लक्ष्मीचरितमुत्तमम्
नारद उवाच सर्वं श्रुतं त्वत्प्रसादाद्गणेशचरितं शुभम्
दन्तद्वययुतं वक्त्रं गजराजस्य बालके
कुतो गतोऽस्य दन्तोऽन्यस्तद्भवान्वक्तुमर्हति
सूत उवाच एकदन्तस्य चरितं प्रवक्तुमुपचक्रमे
नारायण उवाच एकदन्तस्य चरितं सर्वमंगलमंगलम्
एकदा कार्त्तवीर्य्यश्च जगाम मृगयां मुने
निशामुखे दिनेऽतीते तत्र तस्थौ वने नृपः
प्रातः सरोवरे राजा स्नातः शुचिरलंकृतः
मुनिर्ददर्श राजानं शुष्ककण्ठौष्ठतालुकम्
ननाम सम्भमाद्राजा मुनिं सूर्य्यसमप्रभम्
वृत्तान्तं कथयामास राजा चानशनादिकम्
विज्ञाप्य तं मुनिश्रेष्ठः प्रययौ स्वालयं मुदा
उवाच सा मुनिं भीतं भयं किं ते मम स्थितौ
राजभोजनयोग्यार्हं यद्यद्द्रव्यं प्रयाचसे
सौवर्णानि च रौप्याणि पात्राणि विविधानि च
पात्राणि स्वादुपूर्णानि प्रददौ मुनये च सा
पनसाम्रश्रीफलानि नारिकेलादिकानि च
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च
दुग्धानां च घृतानां च नदीर्दध्नां ददौ मुदा
पृथुकानां सुशालीनां पर्वतान्प्रददौ मुदा
नृपयोग्यं कौतुकाच्च सुन्दरं वस्त्रभूषणम्
भोजयामास राजानं ससैन्यमपि लीलया जगाम विस्मयं राजा दृष्ट्वा पात्राण्युवाच ह
राजोवाच ममासाध्यानि सहसा क्वागतान्यवलोकय