तेषां तद्वचनं श्रुत्वा तानुवाच जगत्प्रसूः
श्रीमहालक्ष्मीरुवाच येषां गेहं न गच्छामि शृणुध्वं भारतेषु च
स्थिरा पुण्यवतां गेहे सुनीतिपथवेदिनाम्
यं यं रुष्टो गुरुर्देवो माता तातश्च बान्धवाः
मिथ्यावादी च यः शश्वदनध्यायी च यः सदा
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी
दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितः सदा
यो दुर्वाक्कलहाविष्टः कलिः शश्वद्यदालये
यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम्
कन्यान्नवेदविक्रेता नरघाती च हिंसकः
मातरं पितरं भार्यां गुरुपत्नीं गुरुं सुतम्
कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा
दशनं वसनं यस्य समलं रूक्षमस्तकम्
मूत्रं पुरीषमुत्सृज्य यस्तत्पश्यति मन्दधीः
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत्
दत्त्वा तैलं मूर्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत्
तृणं छिनत्ति नखरैर्नखरैर्विलिखेन्महीम्
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च
यत्कर्म दक्षिणाहीनं कुरुते मूढधीः शठः
मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः
विवाहं धर्मकार्यं वा यो निहन्ति च कोपतः
इत्युक्त्वा सा महालक्ष्मीरन्तर्द्धानं जगाम ह
तां प्रणम्य सुराः सर्वे मुनयश्च मुदाऽन्विताः
नेदुर्दुन्दुभयः स्वर्गे बभूवुः पुष्पवृष्टयः
इत्येवं कथितं वत्स लक्ष्मीचरितमुत्तमम्
नारद उवाच सर्वं श्रुतं त्वत्प्रसादाद्गणेशचरितं शुभम्
दन्तद्वययुतं वक्त्रं गजराजस्य बालके
कुतो गतोऽस्य दन्तोऽन्यस्तद्भवान्वक्तुमर्हति