स्तवनं शृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम्
नारायण उवाच बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम्
स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम्
परां चतुर्णां वेदानां पारबीजं भवार्णवे
योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा
यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम्
प्रसीद जगतां माता रक्षास्मानतिकातरान्
नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः
हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः
कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः
स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम्
इत्येवं कथितं वत्स पद्मायाश्च शुभावहम्
इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत्
इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत
नारायण उवाच जगाम शीघ्रं पद्मायै तीरं क्षीरपयोनिधेः मनसा स्तवनं दिव्यं स्मारं स्मरं पुनःपुनः
ते सर्वे भक्तियुक्ताश्च तुष्टुवुः कमलालयाम्
सा तेषां स्तवनं श्रुत्वा सद्यः साक्षाद्बभूव ह
जगद्व्याप्तं सुप्रभया जगन्मात्रं यया मुने
श्री महालक्ष्मीरुवाच भ्रष्टान्दृष्ट्वा ब्रह्मशापाद्बिभेमि ब्रह्मशापतः
प्राणा मे ब्राह्मणाः सर्वे शश्वत्पुत्राधिकं प्रियाः
विप्रा ब्रुवन्तु मां तुष्टा यास्यामि भवदाज्ञया
गुरुभिर्ब्राह्मणैर्देवैर्भिक्षुभिर्वैष्णवैस्तथा
नारायणश्च भगवान्बिभेति ब्रह्मशापतः
एतस्मिन्नन्तरे ब्रह्मन्ब्राह्मणा हृष्टमानसाः
अंगिराश्च प्रचेताश्च क्रतुश्च भृगुरेव च
सनकश्च सनन्दश्च तृतीयश्च सनातनः
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा
और्वः कात्यायनश्चैव कणादः पाणिनिस्तथा
ब्राह्मणा विविधैर्द्रव्यैः पूजयामासुरीश्वरीम्
स्तुत्वा मुनीन्द्रास्तां भक्त्या चक्रुराराधनं मुदा